Thursday, June 20, 2019

शिवसूत्राणि

अथ शिवसूत्राणि ।
एतान्येव माहेश्वरसूत्राणि प्रत्याहारसूत्राणि चतुर्दशसूत्राणि वा ।
शिवसूत्राणां विषये उच्यते श्लोकः
नृत्तावसाने नटराजराजः ननाद ढक्कां नवपञ्चवारम् । 
उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ।।

सूत्रक्रमाङ्कः
सूत्रम्
अनुबन्धः
कति वर्णाः
युज्याः अनुबन्धाः
कतयः प्रत्याहाराः
1
अ इ उ
ण्
3
14
42
2
ऋ लृ
क्
2
13
26
3
ए ओ
ङ्
2
12
24
4
ऐ औ
च्
2
11
22
5
ह् य् व् र्
ट्
4
10
40
6
ल्
ण्
1
9
9
7
ञ् म् ङ् ण् न्
म्
5
8
40
8
झ् भ्
ञ्
2
7
14
9
घ् ढ् ध्
ष्
3
6
18
10
ज् ब् ग् ड् द्
श्
5
5
25
11
ख् फ् छ् ठ् थ् च् ट् त्
व्
8
4
32
12
क् प्
य्
2
3
6
13
श् ष् स्
र्
3
2
6
14
ह्
ल्
1
1
1-1=0

कुलतः

43-1=42

304

प्रत्येकस्य शिवसूत्रस्य अन्ते एकं व्यंजनम् अस्ति ।
तत् सूत्रस्य अनुबन्धः कथ्यते ।
सूत्राणि प्रायः अनुबन्धेन सह उच्चार्यन्ते
यथा प्रथमं सूत्रम् उच्चार्यते अ इ उ ण् इति |
पञ्चमादिषु सूत्रेषु यानि व्यञ्जनानि तानि अ-कारान्तानि कृत्वा उच्चार्यन्ते यथा पञ्चमं सूत्रम् उच्चार्यते ह य व र ट्
अनुबंधं विहाय प्रत्येकस्मिन् सूत्रे भवन्तः वर्णाः तालिकायां द्वितीये स्तम्भे उक्ताः ।
सूत्रस्थितवर्णानां संख्या चतुर्थे स्तम्भे ।
शिवसूत्रेषु कुलतः (४३) त्रिचत्वारिंशत् वर्णाः उक्ताः ।
तथापि ह-वर्णः द्वयोः सूत्रयोः पञ्चमे च चतुर्दशे च ।
ततः (४२) द्विचत्वारिंशत् वर्णाः मननीयाः ।
प्रथमेषु चतुर्षु सूत्रेषु सर्वे वर्णाः स्वराः ।
पञ्चमादिषु दशसु सूत्रेषु सर्वे वर्णाः व्यञ्जनानि ।
शिवसूत्रेभ्यः कमपि वर्णम् आद्याक्षरं प्रगृह्य तस्य वर्णस्य अग्रे वर्तमानं कमपि अनुबन्धं गृहीत्वा सिद्ध्यति वर्ण-अनुबन्धयोः एका प्रत्याहारसंज्ञा ।
यथा अष्टमे सूत्रे वर्तमानात् झ-वर्णात् प्राप्यन्ते सप्त संज्ञाः झञ् झष् झश् झव् झय् झर् झल् ।
प्रत्याहारसंज्ञा तदन्तर्गतान् सर्वान् वर्णान् निर्दिशति ।
अच्-प्रत्याहारेण सर्वे स्वराः निर्दिश्यन्ते ।
अतः स्वरान्त-शब्दाः अच्-अन्ताः (अजन्ताः) इत्यपि कथ्यन्ते ।
हल्-प्रत्याहारेण सर्वाणि व्यञ्जनानि निर्दिश्यन्ते ।
अमुकसूत्रस्थित-वर्णैः कति प्रत्याहारान् प्राप्तुं शक्यम् तत् षष्ठे स्तम्भे - यथा द्वितीयसूत्रस्थित-वर्णद्वयेन 13*2 = 26 प्रत्याहारान् प्राप्तुं शक्यम् |
व्यञ्जनान्त-शब्दाः हल्-अन्ताः (हलन्ताः) इत्यपि कथ्यन्ते ।
इदमपि द्रष्टव्यं यत् शिवसूत्रेषु वर्णानां क्रमः शब्दकोशेषु प्रापणीयात् क्रमात् भिन्नः भवति ।
शिवसूत्रेषु आ, ई, ऊ ॠ एते दीर्घस्वराः न सन्ति |
शिवसूत्रेषु विसर्जनीयाः स्वराः अपि न वर्तन्ते |
शब्दकोशेषु व्यञ्जनानां क्रमे प्रथमतः कचटतप-वर्गीयाणि पञ्चविंशति व्यञ्जनानि | शिवसूत्रेषु पञ्चमषष्ठसूत्रयोः अन्तस्थव्यञ्जनानां क्रमः य-व-र-ल-इति | संहितासु इ-कारस्य य्-कारः भवति, उ-कारस्य व्-कारः ऋ-कारस्य र्-कारः लृ-कारस्य ल्-कारश्च भवति | शब्दकोशेषु एतेषां क्रमः य-र-ल-व-इति |
स्वरसन्धिविचारेण शिवसूत्रस्थितः क्रमः समीचीनः दृश्यते |
शिवसूत्रेषु ह्-कारस्य स्थानद्वयम् | शब्दकोशेषु ह्-कारः अन्तिमः |
यद्यपि उपरिस्थितायां तालिकायां 304 प्रत्याहाराः शक्याः इति निर्दिष्टं, पाणिनिमुनिना अष्टाध्याय्यां त्रिचत्वारिंशत्तावन्तः (43) प्रत्याहाराः प्रयुक्ताः |
संस्कृतस्य प्रायः समग्रं व्याकरणम् अष्टाध्याय्यां पठ्यते | अष्टाध्यायीम् अवगन्तुं शिवसूत्राणां ज्ञानम् आवश्यकम् |

तदेव महत्त्वं शिवसूत्राणाम् |
एवं विशिष्टोयमभ्यासः शिवसूत्राणाम् |
अस्य अभ्यासस्य दृक्-श्राव्य-प्रस्तुतिः <https://youtu.be/M16-v3u54ww> अत्र दृश्यते श्रूयते च | 
शुभमस्तु !
 -o-O-o-